सूक्त ६१
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ६१
Script
Translation
Previous
सूक्त ६०
Next
सूक्त ६२
३० अमहीयुराङ्गिरसः । पवमानः सोमः । गायत्री ।
अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा ।
अ॒वाह॑न्नव॒तीर्नव॑ ॥१॥
पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो॑दासाय॒ शम्ब॑रम् ।
अध॒ त्यं तु॒र्वशं॒ यदु॑म् ॥२॥
परि॑ णो॒ अश्व॑मश्व॒विद्गोम॑दिन्दो॒ हिर॑ण्यवत् ।
क्षरा॑ सह॒स्रिणी॒रिषः॑ ॥३॥
पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युन्द॒तः ।
स॒खि॒त्वमा वृ॑णीमहे ॥४॥
ये ते॑ प॒वित्र॑मू॒र्मयो॑ऽभि॒क्षर॑न्ति॒ धार॑या ।
तेभि॑र्नः सोम मृळय ॥५॥
स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिष॑म् ।
ईशा॑नः सोम वि॒श्वतः॑ ॥६॥
ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॒ सिन्धु॑मातरम् ।
समा॑दि॒त्येभि॑रख्यत ॥७॥
समिन्द्रे॑णो॒त वा॒युना॑ सु॒त ए॑ति प॒वित्र॒ आ ।
सं सूर्य॑स्य र॒श्मिभिः॑ ॥८॥
स नो॒ भगा॑य वा॒यवे॑ पू॒ष्णे प॑वस्व॒ मधु॑मान् ।
चारु॑र्मि॒त्रे वरु॑णे च ॥९॥
उ॒च्चा ते॑ जा॒तमन्ध॑सो दि॒वि षद्भूम्या द॑दे ।
उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ॥१०॥
ए॒ना विश्वा॑न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणाम् ।
सिषा॑सन्तो वनामहे ॥११॥
स न॒ इन्द्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
व॒रि॒वो॒वित्परि॑ स्रव ॥१२॥
उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भ॒ङ्गं परि॑ष्कृतम् ।
इन्दुं॑ दे॒वा अ॑यासिषुः ॥१३॥
तमिद्व॑र्धन्तु नो॒ गिरो॑ व॒त्सं सं॒शिश्व॑रीरिव ।
य इन्द्र॑स्य हृदं॒सनिः॑ ॥१४॥
अर्षा॑ णः सोम॒ शं गवे॑ धु॒क्षस्व॑ पि॒प्युषी॒मिष॑म् ।
वर्धा॑ समु॒द्रमु॒क्थ्य॑म् ॥१५॥
पव॑मानो अजीजनद्दि॒वश्चि॒त्रं न त॑न्य॒तुम् ।
ज्योति॑र्वैश्वान॒रं बृ॒हत् ॥१६॥
पव॑मानस्य ते॒ रसो॒ मदो॑ राजन्नदुच्छु॒नः ।
वि वार॒मव्य॑मर्षति ॥१७॥
पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा॑जति द्यु॒मान् ।
ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ॥१८॥
यस्ते॒ मदो॒ वरे॑ण्य॒स्तेना॑ पव॒स्वान्ध॑सा ।
दे॒वा॒वीर॑घशंस॒हा ॥१९॥
जघ्नि॑र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं॑ दि॒वेदि॑वे ।
गो॒षा उ॑ अश्व॒सा अ॑सि ॥२०॥
सम्मि॑श्लो अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभिः॑ ।
सीद॑ञ्छ्ये॒नो न योनि॒मा ॥२१॥
स प॑वस्व॒ य आवि॒थेन्द्रं॑ वृ॒त्राय॒ हन्त॑वे ।
व॒व्रि॒वांसं॑ म॒हीर॒पः ॥२२॥
सु॒वीरा॑सो व॒यं धना॒ जये॑म सोम मीढ्वः ।
पु॒ना॒नो व॑र्ध नो॒ गिरः॑ ॥२३॥
त्वोता॑स॒स्तवाव॑सा॒ स्याम॑ व॒न्वन्त॑ आ॒मुरः॑ ।
सोम॑ व्र॒तेषु॑ जागृहि ॥२४॥
अ॒प॒घ्नन्प॑वते॒ मृधोऽप॒ सोमो॒ अरा॑व्णः ।
गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥२५॥
म॒हो नो॑ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ ।
रास्वे॑न्दो वी॒रव॒द्यशः॑ ॥२६॥
न त्वा॑ श॒तं च॒न ह्रुतो॒ राधो॒ दित्स॑न्त॒मा मि॑नन् ।
यत्पु॑ना॒नो म॑ख॒स्यसे॑ ॥२७॥
पव॑स्वेन्दो॒ वृषा॑ सु॒तः कृ॒धी नो॑ य॒शसो॒ जने॑ ।
विश्वा॒ अप॒ द्विषो॑ जहि ॥२८॥
अस्य॑ ते स॒ख्ये व॒यं तवे॑न्दो द्यु॒म्न उ॑त्त॒मे ।
सा॒स॒ह्याम॑ पृतन्य॒तः ॥२९॥
या ते॑ भी॒मान्यायु॑धा ति॒ग्मानि॒ सन्ति॒ धूर्व॑णे ।
रक्षा॑ समस्य नो नि॒दः ॥३०॥
Previous
सूक्त ६०
Next
सूक्त ६२