सूक्त ६२
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ६२
Script
Translation
Previous
सूक्त ६१
Next
सूक्त ६३
३० जमदग्निर्भार्गवः । पवमानः सोमः । गायत्री ।
ए॒ते अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ ।
विश्वा॑न्य॒भि सौभ॑गा ॥१॥
वि॒घ्नन्तो॑ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिनः॑ ।
तना॑ कृ॒ण्वन्तो॒ अर्व॑ते ॥२॥
कृ॒ण्वन्तो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षन्ति सुष्टु॒तिम् ।
इळा॑म॒स्मभ्यं॑ सं॒यत॑म् ॥३॥
असा॑व्यं॒शुर्मदा॑या॒ऽप्सु दक्षो॑ गिरि॒ष्ठाः ।
श्ये॒नो न योनि॒मास॑दत् ॥४॥
शु॒भ्रमन्धो॑ दे॒ववा॑तम॒प्सु धू॒तो नृभिः॑ सु॒तः ।
स्वद॑न्ति॒ गावः॒ पयो॑भिः ॥५॥
आदी॒मश्वं॒ न हेता॒रोऽशू॑शुभन्न॒मृता॑य ।
मध्वो॒ रसं॑ सध॒मादे॑ ॥६॥
यास्ते॒ धारा॑ मधु॒श्चुतोऽसृ॑ग्रमिन्द ऊ॒तये॑ ।
ताभिः॑ प॒वित्र॒मास॑दः ॥७॥
सो अ॒र्षेन्द्रा॑य पी॒तये॑ ति॒रो रोमा॑ण्य॒व्यया॑ ।
सीद॒न्योना॒ वने॒ष्वा ॥८॥
त्वमि॑न्दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒ अङ्गि॑रोभ्यः ।
व॒रि॒वो॒विद्घृ॒तं पयः॑ ॥९॥
अ॒यं विच॑र्षणिर्हि॒तः पव॑मानः॒ स चे॑तति ।
हि॒न्वा॒न आप्यं॑ बृ॒हत् ॥१०॥
ए॒ष वृषा॒ वृष॑व्रतः॒ पव॑मानो अशस्ति॒हा ।
कर॒द्वसू॑नि दा॒शुषे॑ ॥११॥
आ प॑वस्व सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
पु॒रु॒श्च॒न्द्रं पु॑रु॒स्पृह॑म् ॥१२॥
ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा॑न आ॒युभिः॑ ।
उ॒रु॒गा॒यः क॒विक्र॑तुः ॥१३॥
स॒हस्रो॑तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः ।
इन्द्रा॑य पवते॒ मदः॑ ॥१४॥
गि॒रा जा॒त इ॒ह स्तु॒त इन्दु॒रिन्द्रा॑य धीयते ।
विर्योना॑ वस॒तावि॑व ॥१५॥
पव॑मानः सु॒तो नृभिः॒ सोमो॒ वाज॑मिवासरत् ।
च॒मूषु॒ शक्म॑ना॒सद॑म् ॥१६॥
तं त्रि॑पृ॒ष्ठे त्रि॑वन्धु॒रे रथे॑ युञ्जन्ति॒ यात॑वे ।
ऋषी॑णां स॒प्त धी॒तिभिः॑ ॥१७॥
तं सो॑तारो धन॒स्पृत॑मा॒शुं वाजा॑य॒ यात॑वे ।
हरिं॑ हिनोत वा॒जिन॑म् ॥१८॥
आ॒वि॒शन्क॒लशं॑ सु॒तो विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ ।
शूरो॒ न गोषु॑ तिष्ठति ॥१९॥
आ त॑ इन्दो॒ मदा॑य॒ कं पयो॑ दुहन्त्या॒यवः॑ ।
दे॒वा दे॒वेभ्यो॒ मधु॑ ॥२०॥
आ नः॒ सोमं॑ प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमम् ।
दे॒वेभ्यो॑ देव॒श्रुत्त॑मम् ॥२१॥
ए॒ते सोमा॑ असृक्षत गृणा॒नाः श्रव॑से म॒हे ।
म॒दिन्त॑मस्य॒ धार॑या ॥२२॥
अ॒भि गव्या॑नि वी॒तये॑ नृ॒म्णा पु॑ना॒नो अ॑र्षसि ।
स॒नद्वा॑जः॒ परि॑ स्रव ॥२३॥
उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा॑ अर्ष परि॒ष्टुभः॑ ।
गृ॒णा॒नो ज॒मद॑ग्निना ॥२४॥
पव॑स्व वा॒चो अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभिः॑ ।
अ॒भि विश्वा॑नि॒ काव्या॑ ॥२५॥
त्वं स॑मु॒द्रिया॑ अ॒पो॑ऽग्रि॒यो वाच॑ ई॒रय॑न् ।
पव॑स्व विश्वमेजय ॥२६॥
तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो॑म तस्थिरे ।
तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ॥२७॥
प्र ते॑ दि॒वो न वृ॒ष्टयो॒ धारा॑ यन्त्यस॒श्चतः॑ ।
अ॒भि शु॒क्रामु॑प॒स्तिर॑म् ॥२८॥
इन्द्रा॒येन्दुं॑ पुनीतनो॒ग्रं दक्षा॑य॒ साध॑नम् ।
ई॒शा॒नं वी॒तिरा॑धसम् ॥२९॥
पव॑मान ऋ॒तः क॒विः सोमः॑ प॒वित्र॒मास॑दत् ।
दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥३०॥
Previous
सूक्त ६१
Next
सूक्त ६३