सूक्त ६०
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ६०
Script
Translation
Previous
सूक्त ५९
Next
सूक्त ६१
४ अवत्सारः काश्यपः । पवमानः सोमः । गायत्री ।३ पुरउष्णिक ।
प्र गा॑य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिम् ।
इन्दुं॑ स॒हस्र॑चक्षसम् ॥१॥
तं त्वा॑ स॒हस्र॑चक्षस॒मथो॑ स॒हस्र॑भर्णसम् ।
अति॒ वार॑मपाविषुः ॥२॥
अति॒ वारा॒न्पव॑मानो असिष्यदत्क॒लशाँ॑ अ॒भि धा॑वति ।
इन्द्र॑स्य॒ हार्द्या॑वि॒शन् ॥३॥
इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे ।
प्र॒जाव॒द्रेत॒ आ भ॑र ॥४॥
Previous
सूक्त ५९
Next
सूक्त ६१