सूक्त ५२
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ५२
Script
Translation
Previous
सूक्त ५१
Next
सूक्त ५३
५ उचथ्य आङ्गिरसः । पवमानः सोमः । गायत्री ।
परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं॑ नो॒ अन्ध॑सा ।
सु॒वा॒नो अ॑र्ष प॒वित्र॒ आ ॥१॥
तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः ।
स॒हस्र॑धारो या॒त्तना॑ ॥२॥
च॒रुर्न यस्तमी॑ङ्ख॒येन्दो॒ न दान॑मीङ्खय ।
व॒धैर्व॑धस्नवीङ्खय ॥३॥
नि शुष्म॑मिन्दवेषां॒ पुरु॑हूत॒ जना॑नाम् ।
यो अ॒स्माँ आ॒दिदे॑शति ॥४॥
श॒तं न॑ इन्द ऊ॒तिभिः॑ स॒हस्रं॑ वा॒ शुची॑नाम् ।
पव॑स्व मंह॒यद्र॑यिः ॥५॥
Previous
सूक्त ५१
Next
सूक्त ५३