सूक्त ५१
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ५१
Script
Translation
Previous
सूक्त ५०
Next
सूक्त ५२
५ उचथ्य आङ्गिरसः । पवमानः सोमः । गायत्री ।
अध्व॑र्यो॒ अद्रि॑भिः सु॒तं सोमं॑ प॒वित्र॒ आ सृ॑ज ।
पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥१॥
दि॒वः पी॒यूष॑मुत्त॒मं सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।
सु॒नोता॒ मधु॑मत्तमम् ॥२॥
तव॒ त्य इ॑न्दो॒ अन्ध॑सो दे॒वा मधो॒र्व्य॑श्नते ।
पव॑मानस्य म॒रुतः॑ ॥३॥
त्वं हि सो॑म व॒र्धय॑न्त्सु॒तो मदा॑य॒ भूर्ण॑ये ।
वृष॑न्त्स्तो॒तार॑मू॒तये॑ ॥४॥
अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥५॥
Previous
सूक्त ५०
Next
सूक्त ५२