सूक्त ५३
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ५३
Script
Translation
Previous
सूक्त ५२
Next
सूक्त ५४
४ अवत्सारः काश्यपः । पवमानः सोमः । गायत्री ।
उत्ते॒ शुष्मा॑सो अस्थू॒ रक्षो॑ भि॒न्दन्तो॑ अद्रिवः ।
नु॒दस्व॒ याः प॑रि॒स्पृधः॑ ॥१॥
अ॒या नि॑ज॒घ्निरोज॑सा रथसं॒गे धने॑ हि॒ते ।
स्तवा॒ अबि॑भ्युषा हृ॒दा ॥२॥
अस्य॑ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ढ्या॑ ।
रु॒ज यस्त्वा॑ पृत॒न्यति॑ ॥३॥
तं हि॑न्वन्ति मद॒च्युतं॒ हरिं॑ न॒दीषु॑ वा॒जिन॑म् ।
इन्दु॒मिन्द्रा॑य मत्स॒रम् ॥४॥
Previous
सूक्त ५२
Next
सूक्त ५४