सूक्त ५०
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ५०
Script
Translation
Previous
सूक्त ४९
Next
सूक्त ५१
५ उचथ्य आङ्गिरसः । पवमानः सोमः । गायत्री ।
उत्ते॒ शुष्मा॑स ईरते॒ सिन्धो॑रू॒र्मेरि॑व स्व॒नः ।
वा॒णस्य॑ चोदया प॒विम् ॥१॥
प्र॒स॒वे त॒ उदी॑रते ति॒स्रो वाचो॑ मख॒स्युवः॑ ।
यदव्य॒ एषि॒ सान॑वि ॥२॥
अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
पव॑मानं मधु॒श्चुत॑म् ॥३॥
आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे ।
अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥४॥
स प॑वस्व मदिन्तम॒ गोभि॑रञ्जा॒नो अ॒क्तुभिः॑ ।
इन्द॒विन्द्रा॑य पी॒तये॑ ॥५॥
Previous
सूक्त ४९
Next
सूक्त ५१