सूक्त ४१
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ४१
Script
Translation
Previous
सूक्त ४०
Next
सूक्त ४२
६ मेध्यातिथिः काण्वः । पवमानः सोमः । गायत्री ।
प्र ये गावो॒ न भूर्ण॑यस्त्वे॒षा अ॒यासो॒ अक्र॑मुः ।
घ्नन्तः॑ कृ॒ष्णामप॒ त्वच॑म् ॥१॥
सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं॑ दुरा॒व्य॑म् ।
सा॒ह्वांसो॒ दस्यु॑मव्र॒तम् ॥२॥
शृ॒ण्वे वृ॒ष्टेरि॑व स्व॒नः पव॑मानस्य शु॒ष्मिणः॑ ।
चर॑न्ति वि॒द्युतो॑ दि॒वि ॥३॥
आ प॑वस्व म॒हीमिषं॒ गोम॑दिन्दो॒ हिर॑ण्यवत् ।
अश्वा॑व॒द्वाज॑वत्सु॒तः ॥४॥
स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण ।
उ॒षाः सूर्यो॒ न र॒श्मिभिः॑ ॥५॥
परि॑ णः शर्म॒यन्त्या॒ धार॑या सोम वि॒श्वतः॑ ।
सरा॑ र॒सेव॑ वि॒ष्टप॑म् ॥६॥
Previous
सूक्त ४०
Next
सूक्त ४२