सूक्त ४०
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ४०
Script
Translation
Previous
सूक्त ३९
Next
सूक्त ४१
६ बृहन्मतिराङ्गिरसः । पवमानः सोमः । गायत्री ।
पु॒ना॒नो अ॑क्रमीद॒भि विश्वा॒ मृधो॒ विच॑र्षणिः ।
शु॒म्भन्ति॒ विप्रं॑ धी॒तिभिः॑ ॥१॥
आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिन्द्रं॒ वृषा॑ सु॒तः ।
ध्रु॒वे सद॑सि सीदति ॥२॥
नू नो॑ र॒यिं म॒हामि॑न्दो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ ।
आ प॑वस्व सह॒स्रिण॑म् ॥३॥
विश्वा॑ सोम पवमान द्यु॒म्नानी॑न्द॒वा भ॑र ।
वि॒दाः स॑ह॒स्रिणी॒रिषः॑ ॥४॥
स नः॑ पुना॒न आ भ॑र र॒यिं स्तो॒त्रे सु॒वीर्य॑म् ।
ज॒रि॒तुर्व॑र्धया॒ गिरः॑ ॥५॥
पु॒ना॒न इ॑न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् ।
वृष॑न्निन्दो न उ॒क्थ्य॑म् ॥६॥
Previous
सूक्त ३९
Next
सूक्त ४१