सूक्त ४२
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ४२
Script
Translation
Previous
सूक्त ४१
Next
सूक्त ४३
६ मेध्यातिथिः काण्वः । पवमानः सोमः । गायत्री ।
ज॒नय॑न्रोच॒ना दि॒वो ज॒नय॑न्न॒प्सु सूर्य॑म् ।
वसा॑नो॒ गा अ॒पो हरिः॑ ॥१॥
ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ ।
धार॑या पवते सु॒तः ॥२॥
वा॒वृ॒धा॒नाय॒ तूर्व॑ये॒ पव॑न्ते॒ वाज॑सातये ।
सोमाः॑ स॒हस्र॑पाजसः ॥३॥
दु॒हा॒नः प्र॒त्नमित्पयः॑ प॒वित्रे॒ परि॑ षिच्यते ।
क्रन्द॑न्दे॒वाँ अ॑जीजनत् ॥४॥
अ॒भि विश्वा॑नि॒ वार्या॒भि दे॒वाँ ऋ॑ता॒वृधः॑ ।
सोमः॑ पुना॒नो अ॑र्षति ॥५॥
गोम॑न्नः सोम वी॒रव॒दश्वा॑व॒द्वाज॑वत्सु॒तः ।
पव॑स्व बृह॒तीरिषः॑ ॥६॥
Previous
सूक्त ४१
Next
सूक्त ४३