सूक्त ३४
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ३४
Script
Translation
Previous
सूक्त ३३
Next
सूक्त ३५
६ त्रित आप्त्यः । पवमानः सोमः । गायत्री ।
प्र सु॑वा॒नो धार॑या॒ तनेन्दु॑र्हिन्वा॒नो अ॑र्षति ।
रु॒जद्दृ॒ळ्हा व्योज॑सा ॥१॥
सु॒त इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
सोमो॑ अर्षति॒ विष्ण॑वे ॥२॥
वृषा॑णं॒ वृष॑भिर्य॒तं सु॒न्वन्ति॒ सोम॒मद्रि॑भिः ।
दु॒हन्ति॒ शक्म॑ना॒ पयः॑ ॥३॥
भुव॑त्त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिन्द्रा॑य मत्स॒रः ।
सं रू॒पैर॑ज्यते॒ हरिः॑ ॥४॥
अ॒भीमृ॒तस्य॑ वि॒ष्टपं॑ दुह॒ते पृश्नि॑मातरः ।
चारु॑ प्रि॒यत॑मं ह॒विः ॥५॥
समे॑न॒मह्रु॑ता इ॒मा गिरो॑ अर्षन्ति स॒स्रुतः॑ ।
धे॒नूर्वा॒श्रो अ॑वीवशत् ॥६॥
Previous
सूक्त ३३
Next
सूक्त ३५