सूक्त ३५
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ३५
Script
Translation
Previous
सूक्त ३४
Next
सूक्त ३६
६ प्रभूवसुराङ्गिरसः । पवमानः सोमः । गायत्री ।
आ नः॑ पवस्व॒ धार॑या॒ पव॑मान र॒यिं पृ॒थुम् ।
यया॒ ज्योति॑र्वि॒दासि॑ नः ॥१॥
इन्दो॑ समुद्रमीङ्खय॒ पव॑स्व विश्वमेजय ।
रा॒यो ध॒र्ता न॒ ओज॑सा ॥२॥
त्वया॑ वी॒रेण॑ वीरवो॒ऽभि ष्या॑म पृतन्य॒तः ।
क्षरा॑ णो अ॒भि वार्य॑म् ॥३॥
प्र वाज॒मिन्दु॑रिष्यति॒ सिषा॑सन्वाज॒सा ऋषिः॑ ।
व्र॒ता वि॑दा॒न आयु॑धा ॥४॥
तं गी॒र्भिर्वा॑चमीङ्ख॒यं पु॑ना॒नं वा॑सयामसि ।
सोम॒ जन॑स्य॒ गोप॑तिम् ॥५॥
विश्वो॒ यस्य॑ व्र॒ते जनो॑ दा॒धार॒ धर्म॑ण॒स्पतेः॑ ।
पु॒ना॒नस्य॑ प्र॒भूव॑सोः ॥६॥
Previous
सूक्त ३४
Next
सूक्त ३६