सूक्त ३३
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ३३
Script
Translation
Previous
सूक्त ३२
Next
सूक्त ३४
६ त्रित आप्त्यः । पवमानः सोमः । गायत्री ।
प्र सोमा॑सो विप॒श्चितो॒ऽपां न य॑न्त्यू॒र्मयः॑ ।
वना॑नि महि॒षा इ॑व ॥१॥
अ॒भि द्रोणा॑नि ब॒भ्रवः॑ शु॒क्रा ऋ॒तस्य॒ धार॑या ।
वाजं॒ गोम॑न्तमक्षरन् ॥२॥
सु॒ता इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
सोमा॑ अर्षन्ति॒ विष्ण॑वे ॥३॥
ति॒स्रो वाच॒ उदी॑रते॒ गावो॑ मिमन्ति धे॒नवः॑ ।
हरि॑रेति॒ कनि॑क्रदत् ॥४॥
अ॒भि ब्रह्मी॑रनूषत य॒ह्वीॠ॒तस्य॑ मा॒तरः॑ ।
म॒र्मृ॒ज्यन्ते॑ दि॒वः शिशु॑म् ॥५॥
रा॒यः स॑मु॒द्राँश्च॒तुरो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ ।
आ प॑वस्व सह॒स्रिणः॑ ॥६॥
Previous
सूक्त ३२
Next
सूक्त ३४