सूक्त ३२

ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ३२

Back to Veda

Script

Translation

६ श्यावाश्व आत्रेयः । पवमानः सोमः । गायत्री ।
प्र सोमा॑सो मद॒च्युतः॒ श्रव॑से नो म॒घोनः॑ । सु॒ता वि॒दथे॑ अक्रमुः ॥१॥
आदीं॑ त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः । इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥२॥
आदीं॑ हं॒सो यथा॑ ग॒णं विश्व॑स्यावीवशन्म॒तिम् । अत्यो॒ न गोभि॑रज्यते ॥३॥
उ॒भे सो॑माव॒चाक॑शन्मृ॒गो न त॒क्तो अ॑र्षसि । सीद॑न्नृ॒तस्य॒ योनि॒मा ॥४॥
अ॒भि गावो॑ अनूषत॒ योषा॑ जा॒रमि॑व प्रि॒यम् । अग॑न्ना॒जिं यथा॑ हि॒तम् ॥५॥
अ॒स्मे धे॑हि द्यु॒मद्यशो॑ म॒घव॑द्भ्यश्च॒ मह्यं॑ च । स॒निं मे॒धामु॒त श्रवः॑ ॥६॥