सूक्त २९
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त २९
Script
Translation
Previous
सूक्त २८
Next
सूक्त ३०
६ नृमेध आङ्गिरसः । पवमानः सोमः । गायत्री ।
प्रास्य॒ धारा॑ अक्षर॒न्वृष्णः॑ सु॒तस्यौज॑सा ।
दे॒वाँ अनु॑ प्र॒भूष॑तः ॥१॥
सप्तिं॑ मृजन्ति वे॒धसो॑ गृ॒णन्तः॑ का॒रवो॑ गि॒रा ।
ज्योति॑र्जज्ञा॒नमु॒क्थ्य॑म् ॥२॥
सु॒षहा॑ सोम॒ तानि॑ ते पुना॒नाय॑ प्रभूवसो ।
वर्धा॑ समु॒द्रमु॒क्थ्य॑म् ॥३॥
विश्वा॒ वसू॑नि सं॒जय॒न्पव॑स्व सोम॒ धार॑या ।
इ॒नु द्वेषां॑सि स॒ध्र्य॑क् ॥४॥
रक्षा॒ सु नो॒ अर॑रुषः स्व॒नात्स॑मस्य॒ कस्य॑ चित् ।
नि॒दो यत्र॑ मुमु॒च्महे॑ ॥५॥
एन्दो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या ।
द्यु॒मन्तं॒ शुष्म॒मा भ॑र ॥६॥
Previous
सूक्त २८
Next
सूक्त ३०