सूक्त २८
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त २८
Script
Translation
Previous
सूक्त २७
Next
सूक्त २९
६ प्रियमेध आङ्गिरसः । पवमानः सोमः । गायत्री ।
ए॒ष वा॒जी हि॒तो नृभि॑र्विश्व॒विन्मन॑स॒स्पतिः॑ ।
अव्यो॒ वारं॒ वि धा॑वति ॥१॥
ए॒ष प॒वित्रे॑ अक्षर॒त्सोमो॑ दे॒वेभ्यः॑ सु॒तः ।
विश्वा॒ धामा॑न्यावि॒शन् ॥२॥
ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः ।
वृ॒त्र॒हा दे॑व॒वीत॑मः ॥३॥
ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि॑र्य॒तः ।
अ॒भि द्रोणा॑नि धावति ॥४॥
ए॒ष सूर्य॑मरोचय॒त्पव॑मानो॒ विच॑र्षणिः ।
विश्वा॒ धामा॑नि विश्व॒वित् ॥५॥
ए॒ष शु॒ष्म्यदा॑भ्यः॒ सोमः॑ पुना॒नो अ॑र्षति ।
दे॒वा॒वीर॑घशंस॒हा ॥६॥
Previous
सूक्त २७
Next
सूक्त २९