सूक्त ३०
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त ३०
Script
Translation
Previous
सूक्त २९
Next
सूक्त ३१
६ बिन्दुराङ्गिरसः । पवमानः सोमः । गायत्री ।
प्र धारा॑ अस्य शु॒ष्मिणो॒ वृथा॑ प॒वित्रे॑ अक्षरन् ।
पु॒ना॒नो वाच॑मिष्यति ॥१॥
इन्दु॑र्हिया॒नः सो॒तृभि॑र्मृ॒ज्यमा॑नः॒ कनि॑क्रदत् ।
इय॑र्ति व॒ग्नुमि॑न्द्रि॒यम् ॥२॥
आ नः॒ शुष्मं॑ नृ॒षाह्यं॑ वी॒रव॑न्तं पुरु॒स्पृह॑म् ।
पव॑स्व सोम॒ धार॑या ॥३॥
प्र सोमो॒ अति॒ धार॑या॒ पव॑मानो असिष्यदत् ।
अ॒भि द्रोणा॑न्या॒सद॑म् ॥४॥
अ॒प्सु त्वा॒ मधु॑मत्तमं॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः ।
इन्द॒विन्द्रा॑य पी॒तये॑ ॥५॥
सु॒नोता॒ मधु॑मत्तमं॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।
चारुं॒ शर्धा॑य मत्स॒रम् ॥६॥
Previous
सूक्त २९
Next
सूक्त ३१