सूक्त १०५
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त १०५
Script
Translation
Previous
सूक्त १०४
Next
सूक्त १०६
६ पर्वतनारदौ काण्वौ । पवमानः सोमः । उष्णिक् ।
तं वः॑ सखायो॒ मदा॑य पुना॒नम॒भि गा॑यत ।
शिशुं॒ न य॒ज्ञैः स्व॑दयन्त गू॒र्तिभिः॑ ॥१॥
सं व॒त्स इ॑व मा॒तृभि॒रिन्दु॑र्हिन्वा॒नो अ॑ज्यते ।
दे॒वा॒वीर्मदो॑ म॒तिभिः॒ परि॑ष्कृतः ॥२॥
अ॒यं दक्षा॑य॒ साध॑नो॒ऽयं शर्धा॑य वी॒तये॑ ।
अ॒यं दे॒वेभ्यो॒ मधु॑मत्तमः सु॒तः ॥३॥
गोम॑न्न इन्दो॒ अश्व॑वत्सु॒तः सु॑दक्ष धन्व ।
शुचिं॑ ते॒ वर्ण॒मधि॒ गोषु॑ दीधरम् ॥४॥
स नो॑ हरीणां पत॒ इन्दो॑ दे॒वप्स॑रस्तमः ।
सखे॑व॒ सख्ये॒ नर्यो॑ रु॒चे भ॑व ॥५॥
सने॑मि॒ त्वम॒स्मदाँ अदे॑वं॒ कं चि॑द॒त्रिण॑म् ।
सा॒ह्वाँ इ॑न्दो॒ परि॒ बाधो॒ अप॑ द्व॒युम् ॥६॥
Previous
सूक्त १०४
Next
सूक्त १०६