सूक्त १०४
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त १०४
Script
Translation
Previous
सूक्त १०३
Next
सूक्त १०५
६ पर्वतनारदौ काण्वौ, काश्यप्यौ शिखण्डिन्यावप्सरसौ वा । पवमानः सोमः । उष्णिक् ।
सखा॑य॒ आ नि षी॑दत पुना॒नाय॒ प्र गा॑यत ।
शिशुं॒ न य॒ज्ञैः परि॑ भूषत श्रि॒ये ॥१॥
समी॑ व॒त्सं न मा॒तृभिः॑ सृ॒जता॑ गय॒साध॑नम् ।
दे॒वा॒व्यं१ मद॑म॒भि द्विश॑वसम् ॥२॥
पु॒नाता॑ दक्ष॒साध॑नं॒ यथा॒ शर्धा॑य वी॒तये॑ ।
यथा॑ मि॒त्राय॒ वरु॑णाय॒ शंत॑मः ॥३॥
अ॒स्मभ्यं॑ त्वा वसु॒विद॑म॒भि वाणी॑रनूषत ।
गोभि॑ष्टे॒ वर्ण॑म॒भि वा॑सयामसि ॥४॥
स नो॑ मदानां पत॒ इन्दो॑ दे॒वप्स॑रा असि ।
सखे॑व॒ सख्ये॑ गातु॒वित्त॑मो भव ॥५॥
सने॑मि कृ॒ध्य१स्मदा र॒क्षसं॒ कं चि॑द॒त्रिण॑म् ।
अपादे॑वं द्व॒युमंहो॑ युयोधि नः ॥६॥
Previous
सूक्त १०३
Next
सूक्त १०५