सूक्त १०६
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त १०६
Script
Translation
Previous
सूक्त १०५
Next
सूक्त १०७
((१४) १-३, १०-१४ अग्निश्चाक्षुषः, ४-६ चक्षुर्मानवः, ७-९ मनुराप्सवः । पवमानः सोमः । उष्णिक् ।
इन्द्र॒मच्छ॑ सु॒ता इ॒मे वृष॑णं यन्तु॒ हर॑यः ।
श्रु॒ष्टी जा॒तास॒ इन्द॑वः स्व॒र्विदः॑ ॥१॥
अ॒यं भरा॑य सान॒सिरिन्द्रा॑य पवते सु॒तः ।
सोमो॒ जैत्र॑स्य चेतति॒ यथा॑ वि॒दे ॥२॥
अ॒स्येदिन्द्रो॒ मदे॒ष्वा ग्रा॒भं गृ॑भ्णीत सान॒सिम् ।
वज्रं॑ च॒ वृष॑णं भर॒त्सम॑प्सु॒जित् ॥३॥
प्र ध॑न्वा सोम॒ जागृ॑वि॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ।
द्यु॒मन्तं॒ शुष्म॒मा भ॑रा स्व॒र्विद॑म् ॥४॥
इन्द्रा॑य॒ वृष॑णं॒ मदं॒ पव॑स्व वि॒श्वद॑र्शतः ।
स॒हस्र॑यामा पथि॒कृद्वि॑चक्ष॒णः ॥५॥
अ॒स्मभ्यं॑ गातु॒वित्त॑मो दे॒वेभ्यो॒ मधु॑मत्तमः ।
स॒हस्रं॑ याहि प॒थिभिः॒ कनि॑क्रदत् ॥६॥
पव॑स्व दे॒ववी॑तय॒ इन्दो॒ धारा॑भि॒रोज॑सा ।
आ क॒लशं॒ मधु॑मान्त्सोम नः सदः ॥७॥
तव॑ द्र॒प्सा उ॑द॒प्रुत॒ इन्द्रं॒ मदा॑य वावृधुः ।
त्वां दे॒वासो॑ अ॒मृता॑य॒ कं प॑पुः ॥८॥
आ नः॑ सुतास इन्दवः पुना॒ना धा॑वता र॒यिम् ।
वृ॒ष्टिद्या॑वो रीत्यापः स्व॒र्विदः॑ ॥९॥
सोमः॑ पुना॒न ऊ॒र्मिणाऽव्यो॒ वारं॒ वि धा॑वति ।
अग्रे॑ वा॒चः पव॑मानः॒ कनि॑क्रदत् ॥१०॥
धी॒भिर्हि॑न्वन्ति वा॒जिनं॒ वने॒ क्रीळ॑न्त॒मत्य॑विम् ।
अ॒भि त्रि॑पृ॒ष्ठं म॒तयः॒ सम॑स्वरन् ॥११॥
अस॑र्जि क॒लशाँ॑ अ॒भि मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः ।
पु॒ना॒नो वाचं॑ ज॒नय॑न्नसिष्यदत् ॥१२॥
पव॑ते हर्य॒तो हरि॒रति॒ ह्वरां॑सि॒ रंह्या॑ ।
अ॒भ्यर्ष॑न्त्स्तो॒तृभ्यो॑ वी॒रव॒द्यशः॑ ॥१३॥
अ॒या प॑वस्व देव॒युर्मधो॒र्धारा॑ असृक्षत ।
रेभ॑न्प॒वित्रं॒ पर्ये॑षि वि॒श्वतः॑ ॥१४॥
Previous
सूक्त १०५
Next
सूक्त १०७