सूक्त १०३

ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त १०३

Back to Veda

Script

Translation

६ द्वित आप्त्यः । पवमानः सोमः । उष्णिक् ।
प्र पु॑ना॒नाय॑ वे॒धसे॒ सोमा॑य॒ वच॒ उद्य॑तम् । भृ॒तिं न भ॑रा म॒तिभि॒र्जुजो॑षते ॥१॥
परि॒ वारा॑ण्य॒व्यया॒ गोभि॑रञ्जा॒नो अ॑र्षति । त्री ष॒धस्था॑ पुना॒नः कृ॑णुते॒ हरिः॑ ॥२॥
परि॒ कोशं॑ मधु॒श्चुत॑म॒व्यये॒ वारे॑ अर्षति । अ॒भि वाणी॒ॠषी॑णां स॒प्त नू॑षत ॥३॥
परि॑ णे॒ता म॑ती॒नां वि॒श्वदे॑वो॒ अदा॑भ्यः । सोमः॑ पुना॒नश्च॒म्वो॑र्विश॒द्धरिः॑ ॥४॥
परि॒ दैवी॒रनु॑ स्व॒धा इन्द्रे॑ण याहि स॒रथ॑म् । पु॒ना॒नो वा॒घद्वा॒घद्भि॒रम॑र्त्यः ॥५॥
परि॒ सप्ति॒र्न वा॑ज॒युर्दे॒वो दे॒वेभ्यः॑ सु॒तः । व्या॒न॒शिः पव॑मानो॒ वि धा॑वति ॥६॥