सूक्त ५६
ऋग्वेदः / संहिता / शाकल / मण्डल ६ / सूक्त ५६
Script
Translation
Previous
सूक्त ५५
Next
सूक्त ५७
६ बार्हस्पत्यो भरद्वाजः ।पूषा । गायत्री, ६ अनुष्टप् ।
य ए॑नमा॒दिदे॑शति कर॒म्भादिति॑ पू॒षण॑म् ।
न तेन॑ दे॒व आ॒दिशे॑ ॥१॥
उ॒त घा॒ स र॒थीत॑मः॒ सख्या॒ सत्प॑तिर्यु॒जा ।
इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥२॥
उ॒तादः प॑रु॒षे गवि॒ सूर॑श्च॒क्रं हि॑र॒ण्यय॑म् ।
न्यै॑रयद्र॒थीत॑मः ॥३॥
यद॒द्य त्वा॑ पुरुष्टुत॒ ब्रवा॑म दस्र मन्तुमः ।
तत्सु नो॒ मन्म॑ साधय ॥४॥
इ॒मं च॑ नो ग॒वेष॑णं सा॒तये॑ सीषधो ग॒णम् ।
आ॒रात्पू॑षन्नसि श्रु॒तः ॥५॥
आ ते॑ स्व॒स्तिमी॑मह आ॒रेअ॑घा॒मुपा॑वसुम् ।
अ॒द्या च॑ स॒र्वता॑तये॒ श्वश्च॑ स॒र्वता॑तये ॥६॥
Previous
सूक्त ५५
Next
सूक्त ५७