सूक्त ५७
ऋग्वेदः / संहिता / शाकल / मण्डल ६ / सूक्त ५७
Script
Translation
Previous
सूक्त ५६
Next
सूक्त ५८
६ बार्हस्पत्यो भरद्वाजः ।इंद्रापूषणौ । गायत्री ।
इन्द्रा॒ नु पू॒षणा॑ व॒यं स॒ख्याय॑ स्व॒स्तये॑ ।
हु॒वेम॒ वाज॑सातये ॥१॥
सोम॑म॒न्य उपा॑सद॒त्पात॑वे च॒म्वोः॑ सु॒तम् ।
क॒र॒म्भम॒न्य इ॑च्छति ॥२॥
अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी॑ अ॒न्यस्य॒ सम्भृ॑ता ।
ताभ्यां॑ वृ॒त्राणि॑ जिघ्नते ॥३॥
यदिन्द्रो॒ अन॑य॒द्रितो॑ म॒हीर॒पो वृष॑न्तमः ।
तत्र॑ पू॒षाभ॑व॒त्सचा॑ ॥४॥
तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व ।
इन्द्र॑स्य॒ चा र॑भामहे ॥५॥
उत्पू॒षणं॑ युवामहे॒ऽभीशूँ॑रिव॒ सार॑थिः ।
म॒ह्या इन्द्रं॑ स्व॒स्तये॑ ॥६॥
Previous
सूक्त ५६
Next
सूक्त ५८