सूक्त ५५
ऋग्वेदः / संहिता / शाकल / मण्डल ६ / सूक्त ५५
Script
Translation
Previous
सूक्त ५४
Next
सूक्त ५६
६ बार्हस्पत्यो भरद्वाजः ।पूषा । गायत्री ।
एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै ।
र॒थीॠ॒तस्य॑ नो भव ॥१॥
र॒थीत॑मं कप॒र्दिन॒मीशा॑नं॒ राध॑सो म॒हः ।
रा॒यः सखा॑यमीमहे ॥२॥
रा॒यो धारा॑स्याघृणे॒ वसो॑ रा॒शिर॑जाश्व ।
धीव॑तोधीवतः॒ सखा॑ ॥३॥
पू॒षणं॒ न्व१जाश्व॒मुप॑ स्तोषाम वा॒जिन॑म् ।
स्वसु॒र्यो जा॒र उ॒च्यते॑ ॥४॥
मा॒तुर्दि॑धि॒षुम॑ब्रवं॒ स्वसु॑र्जा॒रः शृ॑णोतु नः ।
भ्रातेन्द्र॑स्य॒ सखा॒ मम॑ ॥५॥
आजासः॑ पू॒षणं॒ रथे॑ निशृ॒म्भास्ते ज॑न॒श्रिय॑म् ।
दे॒वं व॑हन्तु॒ बिभ्र॑तः ॥६॥
Previous
सूक्त ५४
Next
सूक्त ५६