सूक्त ८३
ऋग्वेदः / संहिता / शाकल / मण्डल ५ / सूक्त ८३
Script
Translation
Previous
सूक्त ८२
Next
सूक्त ८४
१० भौमोऽत्रिः । पर्जन्यः । त्रिष्टुप्, २-४ जगती, ९ अनुष्टुप् ।
अच्छा॑ वद त॒वसं॑ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास ।
कनि॑क्रदद् वृष॒भो जी॒रदा॑नू॒ रेतो॑ दधा॒त्योष॑धीषु॒ गर्भ॑म् ॥१॥
वि वृ॒क्षान् ह॑न्त्यु॒त ह॑न्ति र॒क्षसो॒ विश्वं॑ बिभाय॒ भुव॑नं म॒हाव॑धात् ।
उ॒ताना॑गा ईषते॒ वृष्ण्या॑वतो॒ यत् प॒र्जन्यः॑ स्त॒नय॒न्हन्ति॑ दु॒ष्कृतः॑ ॥२॥
र॒थीव॒ कश॒याश्वाँ॑ अभिक्षि॒पन्ना॒विर्दू॒तान् कृ॑णुते व॒र्ष्याँ॒३ अह॑ ।
दू॒रात् सिं॒हस्य॑ स्त॒नथा॒ उदी॑रते॒ यत् प॒र्जन्यः॑ कृणु॒ते व॒र्ष्यं१ नभः॑ ॥३॥
प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑ ।
इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत् प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति ॥४॥
यस्य॑ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य॑ व्र॒ते श॒फव॒ज्जर्भु॑रीति ।
यस्य॑ व्र॒त ओष॑धीर्वि॒श्वरू॑पाः॒ स नः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥५॥
दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ ।
अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ॥६॥
अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न ।
दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य॑ञ्चं स॒मा भ॑वन्तू॒द्वतो॑ निपा॒दाः ॥७॥
म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि॑ञ्च॒ स्यन्द॑न्तां कु॒ल्या विषि॑ताः पु॒रस्ता॑त् ।
घृ॒तेन॒ द्यावा॑पृथि॒वी व्यु॑न्धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्यः॑ ॥८॥
यत् प॑र्जन्य॒ कनि॑क्रदत् स्त॒नय॒न्हंसि॑ दु॒ष्कृतः॑ ।
प्रती॒दं विश्वं॑ मोदते॒ यत् किं च॑ पृथि॒व्यामधि॑ ॥९॥
अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याऽक॒र्धन्वा॒न्यत्ये॑त॒वा उ॑ ।
अजी॑जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो॑ऽविदो मनी॒षाम् ॥१०॥
Previous
सूक्त ८२
Next
सूक्त ८४