सूक्त ८४
ऋग्वेदः / संहिता / शाकल / मण्डल ५ / सूक्त ८४
Script
Translation
Previous
सूक्त ८३
Next
सूक्त ८५
३ भौमोऽत्रिः । पृथिवी । अनुष्टुप् ।
बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि ।
प्र या भूमिं॑ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि ॥१॥
स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ ष्टोभन्त्य॒क्तुभिः॑ ।
प्र या वाजं॒ न हेष॑न्तं पे॒रुमस्य॑स्यर्जुनि ॥२॥
दृ॒ळहा चि॒द् या वन॒स्पती॑न् क्ष्म॒या दर्ध॒र्ष्योज॑सा ।
यत् ते॑ अ॒भ्रस्य॑ वि॒द्युतो॑ दि॒वो वर्ष॑न्ति वृ॒ष्टयः॑ ॥३॥
Previous
सूक्त ८३
Next
सूक्त ८५