सूक्त ८२
ऋग्वेदः / संहिता / शाकल / मण्डल ५ / सूक्त ८२
Script
Translation
Previous
सूक्त ८१
Next
सूक्त ८३
९ श्यावाश्व आत्रेयः । सविता । गायत्री, १ अनुष्टुप् ।
तत् स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम् ।
श्रेष्ठं॑ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि ॥१॥
अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम् ।
न मि॒नन्ति॑ स्व॒राज्य॑म् ॥२॥
स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भगः॑ ।
तं भा॒गं चि॒त्रमी॑महे ॥३॥
अ॒द्या नो॑ देव सवितः प्र॒जाव॑त् सावीः॒ सौभ॑गम् ।
परा॑ दु॒ष्ष्वप्न्यं॑ सुव ॥४॥
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव ।
यद् भ॒द्रं तन्न॒ आ सु॑व ॥५॥
अना॑गसो॒ अदि॑तये दे॒वस्य॑ सवि॒तुः स॒वे ।
विश्वा॑ वा॒मानि॑ धीमहि ॥६॥
आ वि॒श्वदे॑वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे ।
स॒त्यस॑वं सवि॒तार॑म् ॥७॥
य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन् ।
स्वा॒धीर्दे॒वः स॑वि॒ता ॥८॥
य इ॒मा विश्वा॑ जा॒तान्या॑श्रा॒वय॑ति॒ श्लोके॑न ।
प्र च॑ सु॒वाति॑ सवि॒ता ॥९॥
Previous
सूक्त ८१
Next
सूक्त ८३