सूक्त ७१

ऋग्वेदः / संहिता / शाकल / मण्डल ५ / सूक्त ७१

Back to Veda

Script

Translation

३ बाहुवृक्त आत्रेयः । मित्रावरुणौ । गायत्री ।
आ नो॑ गन्तं रिशादसा॒ वरु॑ण॒ मित्र॑ ब॒र्हणा॑ । उपे॒मं चारु॑मध्व॒रम् ॥१॥
विश्व॑स्य॒ हि प्र॑चेतसा॒ वरु॑ण॒ मित्र॒ राज॑थः । ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥२॥
उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुषः॑ । अ॒स्य सोम॑स्य पी॒तये॑ ॥३॥