सूक्त ७०
ऋग्वेदः / संहिता / शाकल / मण्डल ५ / सूक्त ७०
Script
Translation
Previous
सूक्त ६९
Next
सूक्त ७१
४ उरुचक्रिरात्रेयः । मित्रावरुणौ । गायत्री ।
पु॒रू॒रुणा॑ चि॒द्ध्यस्त्यवो॑ नू॒नं वां॑ वरुण ।
मित्र॒ वंसि॑ वां सुम॒तिम् ॥१॥
ता वां॑ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से ।
व॒यं ते रु॑द्रा स्याम ॥२॥
पा॒तं नो॑ रुद्रा पा॒युभि॑रु॒त त्रा॑येथां सुत्रा॒त्रा ।
तु॒र्याम॒ दस्यू॑न् त॒नूभिः॑ ॥३॥
मा कस्या॑द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभिः॑ ।
मा शेष॑सा॒ मा तन॑सा ॥४॥
Previous
सूक्त ६९
Next
सूक्त ७१