सूक्त ७२

ऋग्वेदः / संहिता / शाकल / मण्डल ५ / सूक्त ७२

Back to Veda

Script

Translation

३ बाहुवृक्त आत्रेयः । मित्रावरुणौ । उष्णिक् ।
आ मि॒त्रे वरु॑णे व॒यं गी॒र्भिर्जु॑हुमो अत्रि॒वत् । नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ॥१॥
व्र॒तेन॑ स्थो ध्रु॒वक्षे॑मा॒ धर्म॑णा यात॒यज्ज॑ना । नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ॥२॥
मि॒त्रश्च॑ नो॒ वरु॑णश्च जु॒षेतां॑ य॒ज्ञमि॒ष्टये॑ । नि ब॒र्हिषि॑ सदतां॒ सोम॑पीतये ॥३॥