सूक्त ४२

ऋग्वेदः / संहिता / शाकल / मण्डल २ / सूक्त ४२

Back to Veda

Script

Translation

३ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः । शकुन्तः (कपिञ्जलरूपीन्द्रः) । त्रिष्टुप् ।
कनि॑क्रदज्ज॒नुषं॑ प्रब्रुवा॒ण इय॑र्ति॒ वाच॑मरि॒तेव॒ नाव॑म् । सु॒म॒ङ्गल॑श्च शकुने॒ भवा॑सि॒ मा त्वा॒ का चि॑दभि॒भा विश्व्या॑ विदत् ॥१॥
मा त्वा॑ श्ये॒न उद् व॑धी॒न्मा सु॑प॒र्णो मा त्वा॑ विद॒दिषु॑मान् वी॒रो अस्ता॑ । पित्र्या॒मनु॑ प्र॒दिशं॒ कनि॑क्रदत् सुम॒ङ्गलो॑ भद्रवा॒दी व॑दे॒ह ॥२॥
अव॑ क्रन्द दक्षिण॒तो गृ॒हाणां॑ सुम॒ङ्गलो॑ भद्रवा॒दी श॑कुन्ते । मा नः॑ स्ते॒न ई॑शत॒ माघशं॑सो बृ॒हद् व॑देम वि॒दथे॑ सु॒वीराः॑ ॥३॥