सूक्त ४३
ऋग्वेदः / संहिता / शाकल / मण्डल २ / सूक्त ४३
Script
Translation
Previous
सूक्त ४२
३ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः । शकुन्तः(-कपिञ्जलरूपीन्द्रः) । जगती, २ अतिशक्वरी अष्टिर्वा ।
प्र॒द॒क्षि॒णिद॒भि गृ॑णन्ति का॒रवो॒ वयो॒ वद॑न्त ऋतु॒था श॒कुन्त॑यः ।
उ॒भे वाचौ॑ वदति साम॒गा इ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति ॥१॥
उ॒द्गा॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शंससि ।
वृषे॑व वा॒जी शिशु॑मतीर॒पीत्या॑ स॒र्वतो॑ नः शकुने भ॒द्रमा व॑द वि॒श्वतो॑ नः शकुने॒ पुण्य॒मा व॑द ॥२॥
आ॒वदं॒स्त्वं श॑कुने भ॒द्रमा व॑द तू॒ष्णीमासी॑नः सुम॒तिं चि॑किद्धि नः ।
यदु॒त्पत॒न् वद॑सि कर्क॒रिर्य॑था बृ॒हद् व॑देम वि॒दथे॑ सु॒वीराः॑ ॥३॥
॥इति द्वितीयं मण्डलं समाप्तम् ॥
Previous
सूक्त ४२