सूक्त ४१
ऋग्वेदः / संहिता / शाकल / मण्डल २ / सूक्त ४१
Script
Translation
Previous
सूक्त ४०
Next
सूक्त ४२
२१ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः । १-२ वायुः, ३ इंद्रवायू, ४-६ मित्रावरुणौ, ७-९ अश्विनौ, १०-१२ इन्द्रः, १३-१५ विश्वेदेवाः, १६-१८ सरस्वती, १९-२१ द्यावापृथिव्यौ हविर्धाने वाः (१९ तृतीयपादस्य अग्निर्वा) ।गायत्री, १६-१७ अनुष्टुप्, १८ बृहती ।
वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि ।
नि॒युत्वा॒न्त्सोम॑पीतये ॥१॥
नि॒युत्वा॑न् वाय॒वा ग॑ह्य॒यं शु॒क्रो अ॑यामि ते ।
गन्ता॑सि सुन्व॒तो गृ॒हम् ॥२॥
शु॒क्रस्या॒द्य गवा॑शिर॒ इन्द्र॑वायू नि॒युत्व॑तः ।
आ या॑तं॒ पिब॑तं नरा ॥३॥
अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा ।
ममेदि॒ह श्रु॑तं॒ हव॑म् ॥४॥
राजा॑ना॒वन॑भिद्रुहा ध्रु॒वे सद॑स्युत्त॒मे ।
स॒हस्र॑स्थूण आसाते ॥५॥
ता स॒म्राजा॑ घृ॒तासु॑ती आदि॒त्या दानु॑न॒स्पती॑ ।
सचे॑ते॒ अन॑वह्वरम् ॥६॥
गोम॑दू॒ षु ना॑स॒त्याश्वा॑वद्यातमश्विना ।
व॒र्ती रु॑द्रा नृ॒पाय्य॑म् ॥७॥
न यत् परो॒ नान्त॑र आद॒धर्ष॑द् वृषण्वसू ।
दुः॒शंसो॒ मर्त्यो॑ रि॒पुः ॥८॥
ता न॒ आ वो॑ळहमश्विना र॒यिं पि॒शङ्ग॑संदृशम् ।
धिष्ण्या॑ वरिवो॒विद॑म् ॥९॥
इन्द्रो॑ अ॒ङ्ग म॒हद् भ॒यम॒भी षदप॑ चुच्यवत् ।
स हि स्थि॒रो विच॑र्षणिः ॥१०॥
इन्द्र॑श्च मृ॒ळया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत् ।
भ॒द्रं भ॑वाति नः पु॒रः ॥११॥
इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत् ।
जेता॒ शत्रू॒न् विच॑र्षणिः ॥१२॥
विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव॑म् ।
एदं ब॒र्हिर्नि षी॑दत ॥१३॥
ती॒व्रो वो॒ मधु॑माँ अ॒यं शु॒नहो॑त्रेषु मत्स॒रः ।
ए॒तं पि॑बत॒ काम्य॑म् ॥१४॥
इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑सः॒ पूष॑रातयः ।
विश्वे॒ मम॑ श्रुता॒ हव॑म् ॥१५॥
अम्बि॑तमे॒ नदी॑तमे॒ देवि॑तमे॒ सर॑स्वति ।
अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि ॥१६॥
त्वे विश्वा॑ सरस्वति श्रि॒तायूं॑षि दे॒व्याम् ।
शु॒नहो॑त्रेषु मत्स्व प्र॒जां दे॑वि दिदिड्ढि नः ॥१७॥
इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति ।
या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ॥१८॥
प्रेतां॑ य॒ज्ञस्य॑ श॒म्भुवा॑ यु॒वामिदा वृ॑णीमहे ।
अ॒ग्निं च॑ हव्य॒वाह॑नम् ॥१९॥
द्यावा॑ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश॑म् ।
य॒ज्ञं दे॒वेषु॑ यच्छताम् ॥२०॥
आ वा॑मु॒पस्थ॑मद्रुहा दे॒वाः सी॑दन्तु य॒ज्ञियाः॑ ।
इ॒हाद्य सोम॑पीतये ॥२१॥
Previous
सूक्त ४०
Next
सूक्त ४२