सूक्त १८९

ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १८९

Back to Veda

Script

Translation

३ सार्पराज्ञी । आत्मा,सूर्यो वा । गायत्री ।
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्वः॑ ॥१॥
अ॒न्तश्च॑रति रोच॒नाऽस्य प्रा॒णाद॑पान॒ती । व्य॑ख्यन्महि॒षो दिव॑म् ॥२॥
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑तं॒गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥३॥