सूक्त १९०
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १९०
Script
Translation
Previous
सूक्त १८९
Next
सूक्त १९१
३ माधुच्छन्दसोऽघमर्षणः । भाववृत्तम् । अनुष्टुप् ।
ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत ।
ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥१॥
स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत ।
अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥२॥
सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
दिवं॑ च पृथि॒वीं चा॒ऽन्तरि॑क्ष॒मथो॒ स्वः॑ ॥३॥
Previous
सूक्त १८९
Next
सूक्त १९१