सूक्त १८८
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १८८
Script
Translation
Previous
सूक्त १८७
Next
सूक्त १८९
३ आग्नेयः श्येनः । जातवेदा अग्निः । गायत्री ।
प्र नू॒नं जा॒तवे॑दस॒मश्वं॑ हिनोत वा॒जिन॑म् ।
इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥१॥
अ॒स्य प्र जा॒तवे॑दसो॒ विप्र॑वीरस्य मी॒ळ्हुषः॑ ।
म॒हीमि॑यर्मि सुष्टु॒तिम् ॥२॥
या रुचो॑ जा॒तवे॑दसो देव॒त्रा ह॑व्य॒वाह॑नीः ।
ताभि॑र्नो य॒ज्ञमि॑न्वतु ॥३॥
Previous
सूक्त १८७
Next
सूक्त १८९