सूक्त १७५
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १७५
Script
Translation
Previous
सूक्त १७४
Next
सूक्त १७६
४ ऊर्ध्वग्रावा सर्प आर्बुदिः । ग्रावाणः । गायत्री ।
प्र वो॑ ग्रावाणः सवि॒ता दे॒वः सु॑वतु॒ धर्म॑णा ।
धू॒र्षु यु॑ज्यध्वं सुनु॒त ॥१॥
ग्रावा॑णो॒ अप॑ दु॒च्छुना॒मप॑ सेधत दुर्म॒तिम् ।
उ॒स्राः क॑र्तन भेष॒जम् ॥२॥
ग्रावा॑ण॒ उप॑रे॒ष्वा म॑ही॒यन्ते॑ स॒जोष॑सः ।
वृष्णे॒ दध॑तो॒ वृष्ण्य॑म् ॥३॥
ग्रावा॑णः सवि॒ता नु वो॑ दे॒वः सु॑वतु॒ धर्म॑णा ।
यज॑मानाय सुन्व॒ते ॥४॥
Previous
सूक्त १७४
Next
सूक्त १७६