सूक्त १७४
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १७४
Script
Translation
Previous
सूक्त १७३
Next
सूक्त १७५
५ अभीवर्त आंगिरसः । राजा । अनुष्टुप् ।
अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेन्द्रो॑ अभिवावृ॒ते ।
तेना॒स्मान्ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ॥१॥
अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः ।
अ॒भि पृ॑त॒न्यन्तं॑ तिष्ठा॒ऽभि यो न॑ इर॒स्यति॑ ॥२॥
अ॒भि त्वा॑ दे॒वः स॑वि॒ताऽभि सोमो॑ अवीवृतत् ।
अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥३॥
येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवम् ॥४॥
अ॒स॒प॒त्नः स॑पत्न॒हाऽभिरा॑ष्ट्रो विषास॒हिः ।
यथा॒हमे॑षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च ॥५॥
Previous
सूक्त १७३
Next
सूक्त १७५