सूक्त १७६
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १७६
Script
Translation
Previous
सूक्त १७५
Next
सूक्त १७७
४ सूनुरार्भवः । १ ऋभवः, २-४ अग्निः । अनुष्टुप् , २ गायत्री ।
प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वन्त वृ॒जना॑ ।
क्षामा॒ ये वि॒श्वधा॑य॒सोऽश्न॑न्धे॒नुं न मा॒तर॑म् ॥१॥
प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम् ।
ह॒व्या नो॑ वक्षदानु॒षक् ॥२॥
अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते ।
रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वाञ्चेतति॒ त्मना॑ ॥३॥
अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः ।
सह॑सश्चि॒त्सही॑यान्दे॒वो जी॒वात॑वे कृ॒तः ॥४॥
Previous
सूक्त १७५
Next
सूक्त १७७