सूक्त २२
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त २२
Script
Translation
Previous
सूक्त २१
Next
सूक्त २३
२१ मेधातिथिः काण्वः । १-४ अश्विनौ, ५-८ सविता, ९-१० अग्निः, ११ देव्यः, १२ इन्द्राणी वरुणान्यग्नाय्यः,
१३-१४ द्यावापृथिव्यौ, १५ पृथिवी, १६ विष्णुर्देवा वा, १७-२१ विष्णुः ।
गायत्री ।
प्रा॒त॒र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छताम् ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥१॥
या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑ ।
अ॒श्विना॒ ता ह॑वामहे ॥२॥
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती ।
तया॑ य॒ज्ञं मि॑मिक्षतम् ॥३॥
न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे॑न॒ गच्छ॑थः ।
अश्वि॑ना सो॒मिनो॑ गृ॒हम् ॥४॥
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये ।
स चेत्ता॑ दे॒वता॑ प॒दम् ॥५॥
अ॒पां नपा॑त॒मव॑से सवि॒तार॒मुप॑ स्तुहि ।
तस्य॑ व्र॒तान्यु॑श्मसि ॥६॥
वि॒भ॒क्तारं॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः ।
स॒वि॒तारं॑ नृ॒चक्ष॑सम् ॥७॥
सखा॑य॒ आ नि षी॑दत सवि॒ता स्तोम्यो॒ नु नः॑ ।
दाता॒ राधां॑सि शुम्भति ॥८॥
अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑ ।
त्वष्टा॑रं॒ सोम॑पीतये ॥९॥
आ ग्ना अ॑ग्न इ॒हाव॑से॒ होत्रां॑ यविष्ठ॒ भार॑तीम् ।
वरू॑त्रीं धि॒षणां॑ वह ॥१०॥
॥ अ॒भि नो॑ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नीः॑ ।
अच्छि॑न्नपत्राः सचन्ताम् ॥११॥
॥ इ॒हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये॑ ।
अ॒ग्नायीं॒ सोम॑पीतये ॥१२॥
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् ।
पि॒पृ॒तां नो॒ भरी॑मभिः ॥१३॥
तयो॒रिद् घृ॒तव॒त् पयो॒ विप्रा॑ रिहन्ति धी॒तिभिः॑ ।
ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे ॥१४॥
स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ नः॒ शर्म॑ स॒प्रथः॑ ॥१५॥
अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे ।
पृ॒थि॒व्याः स॒प्त धाम॑भिः ॥१६॥
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् ।
समू॑ह्लमस्य पांसु॒रे ॥१७॥
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः ।
अतो॒ धर्मा॑णि धा॒रय॑न् ॥१८॥
विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे ।
इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥१९॥
तद् विष्णोः॑ पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रयः॑ ।
दि॒वी॑व॒ चक्षु॒रात॑तम् ॥२०॥
॥ तद् विप्रा॑सो विप॒न्यवो॑ जागृ॒वांसः॒ समि॑न्धते ।
विष्णो॒र्यत् प॑र॒मं प॒दम् ॥२१॥
॥
Previous
सूक्त २१
Next
सूक्त २३