सूक्त २१
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त २१
Script
Translation
Previous
सूक्त २०
Next
सूक्त २२
६ मेधातिथिः काण्वः । इन्द्राग्नी । गायत्री ।
इ॒हेन्द्रा॒ग्नी उप॑ ह्वये॒ तयो॒रित् स्तोम॑मुश्मसि ।
ता सोमं॑ सोम॒पात॑मा ॥१॥
ता य॒ज्ञेषु॒ प्र शं॑सतेन्द्रा॒ग्नी शु॑म्भता नरः ।
ता गा॑य॒त्रेषु॑ गायत ॥२॥
ता मि॒त्रस्य॒ प्रश॑स्तय इन्द्रा॒ग्नी ता ह॑वामहे ।
सो॒म॒पा सोम॑पीतये ॥३॥
उ॒ग्रा सन्ता॑ हवामह॒ उपे॒दं सव॑नं सु॒तम् ।
इ॒न्द्रा॒ग्नी एह ग॑च्छताम् ॥४॥
ता म॒हान्ता॒ सद॒स्पती॒ इन्द्रा॑ग्नी॒ रक्ष॑ उब्जतम् ।
अप्र॑जाः सन्त्व॒त्रिणः॑ ॥५॥
तेन॑ स॒त्येन॑ जागृत॒मधि॑ प्रचे॒तुने॑ प॒दे ।
इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ॥६॥
Previous
सूक्त २०
Next
सूक्त २२