सूक्त २३
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त २३
Script
Translation
Previous
सूक्त २२
Next
सूक्त २४
२४ मेधातिथिः काण्वः । १ वायुः, २-३ इन्द्र वायू, ४-६ मित्रावरुणौ, ७-९ इन्द्रो मरुत्वान्, १०-१२ विश्वे देवाः, १३-१५ पूषा, १६-२२, २३(पूर्वार्धस्य) आपः, २३(उत्तरार्धस्य), २४ अग्निः । १-१८ गायत्री, १९ पुर उष्णिक्, २१ प्रतिष्ठा, २०, २२-२४ अनुष्टुप् । ॥
ती॒व्राः सोमा॑स॒ आ ग॑ह्या॒शीर्व॑न्तः सु॒ता इ॒मे ।
वायो॒ तान्प्रस्थि॑तान्पिब ॥१॥
उ॒भा दे॒वा दि॑वि॒स्पृशे॑न्द्रवा॒यू ह॑वामहे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥२॥
इ॒न्द्र॒वा॒यू म॑नो॒जुवा॒ विप्रा॑ हवन्त ऊ॒तये॑ ।
स॒ह॒स्रा॒क्षा धि॒यस्पती॑ ॥३॥
मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये ।
ज॒ज्ञा॒ना पू॒तद॑क्षसा ॥४॥
ऋ॒तेन॒ यावृ॑ता॒वृधा॑वृ॒तस्य॒ ज्योति॑ष॒स्पती॑ ।
ता मि॒त्रावरु॑णा हुवे ॥५॥
वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभिः॑ ।
कर॑तां नः सु॒राध॑सः ॥६॥
म॒रुत्व॑न्तं हवामह॒ इन्द्र॒मा सोम॑पीतये ।
स॒जूर्ग॒णेन॑ तृम्पतु ॥७॥
इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑सः॒ पूष॑रातयः ।
विश्वे॒ मम॑ श्रुता॒ हव॑म् ॥८॥
ह॒त वृ॒त्रं सु॑दानव॒ इन्द्रे॑ण॒ सह॑सा यु॒जा ।
मा नो॑ दुः॒शंस॑ ईशत ॥९॥
विश्वा॑न् दे॒वान् ह॑वामहे म॒रुतः॒ सोम॑पीतये ।
उ॒ग्रा हि पृश्नि॑मातरः ॥१०॥
जय॑तामिव तन्य॒तुर्म॒रुता॑मेति धृष्णु॒या ।
यच्छुभं॑ या॒थना॑ नरः ॥११॥
ह॒स्का॒राद् वि॒द्युत॒स्पर्यऽतो॑ जा॒ता अ॑वन्तु नः ।
म॒रुतो॑ मृळयन्तु नः ॥१२॥
आ पू॑षञ्चि॒त्रब॑र्हिष॒माघृ॑णे ध॒रुणं॑ दि॒वः ।
आजा॑ न॒ष्टं यथा॑ प॒शुम् ॥१३॥
पू॒षा राजा॑न॒माघृ॑णि॒रप॑गूह्लं॒ गुहा॑ हि॒तम् ।
अवि॑न्दच्चि॒त्रब॑र्हिषम् ॥१४॥
उ॒तो स मह्य॒मिन्दु॑भिः॒ षड् यु॒क्ताँ अ॑नु॒सेषि॑धत् ।
गोभि॒र्यवं॒ न च॑र्कृषत् ॥१५॥
अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम् ।
पृ॒ञ्च॒तीर्मधु॑ना॒ पयः॑ ॥१६॥
अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह ।
ता नो॑ हिन्वन्त्वध्व॒रम् ॥१७॥
अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गावः॒ पिब॑न्ति नः ।
सिन्धु॑भ्यः॒ कर्त्वं॑ ह॒विः ॥१८॥
अ॒प्स्व१न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तये ।
देवा॒ भव॑त वा॒जिनः॑ ॥१९॥
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा ।
अ॒ग्निं च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥२०॥
आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒ ३ मम॑ ।
ज्योक् च॒ सूर्यं॑ दृ॒शे ॥२१॥
इ॒दमा॑पः॒ प्र व॑हत॒ यत् किं च॑ दुरि॒तं मयि॑ ।
यद् वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥२२॥
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥२३॥
सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा ।
वि॒द्युर्मे॑ अस्य दे॒वा इन्द्रो॑ विद्यात् स॒ह ऋषि॑भिः ॥२४॥
Previous
सूक्त २२
Next
सूक्त २४