सूक्त १७१

ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त १७१

Back to Veda

Script

Translation

६ अगस्त्यो मैत्रावरुणिः । मरुतः,३-६ मरुत्वानिन्द्रः । त्रिष्टुप् ।
प्रति॑ व ए॒ना नम॑सा॒हमे॑मि सू॒क्तेन॑ भिक्षे सुम॒तिं तु॒राणा॑म् । र॒रा॒णता॑ मरुतो वे॒द्याभि॒र्नि हेळो॑ ध॒त्त वि मु॑चध्व॒मश्वा॑न् ॥१॥
ए॒ष वः॒ स्तोमो॑ मरुतो॒ नम॑स्वान् हृ॒दा त॒ष्टो मन॑सा धायि देवाः । उपे॒मा या॑त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद् वृ॒धासः॑ ॥२॥
स्तु॒तासो॑ नो म॒रुतो॑ मृळयन्तू॒त स्तु॒तो म॒घवा॒ शम्भ॑विष्ठः । ऊ॒र्ध्वा नः॑ सन्तु को॒म्या वना॒न्यहा॑नि॒ विश्वा॑ मरुतो जिगी॒षा ॥३॥
अ॒स्माद॒हं त॑वि॒षादीष॑माण॒ इन्द्रा॑द् भि॒या म॑रुतो॒ रेज॑मानः । यु॒ष्मभ्यं॑ ह॒व्या निशि॑तान्यास॒न् तान्या॒रे च॑कृमा मृ॒ळता॑ नः ॥४॥
येन॒ माना॑सश्चि॒तय॑न्त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनाम् । स नो॑ म॒रुद्भि॑र्वृषभ॒ श्रवो॑ धा उ॒ग्र उ॒ग्रेभिः॒ स्थवि॑रः सहो॒दाः ॥५॥
त्वं पा॑हीन्द्र॒ सही॑यसो॒ नॄन् भवा॑ म॒रुद्भि॒रव॑यातहेळाः । सु॒प्र॒के॒तेभिः॑ सास॒हिर्दधा॑नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥६॥