सूक्त १७२
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त १७२
Script
Translation
Previous
सूक्त १७१
Next
सूक्त १७३
३ अगस्त्यो मैत्रावरुणिः । मरुतः । गायत्री ।
चि॒त्रो वो॑ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः ।
मरु॑तो॒ अहि॑भानवः ॥१॥
आ॒रे सा वः॑ सुदानवो॒ मरु॑त ऋञ्ज॒ती शरुः॑ ।
आ॒रे अश्मा॒ यमस्य॑थ ॥२॥
तृ॒ण॒स्क॒न्दस्य॒ नु विशः॒ परि॑ वृङ्क्त सुदानवः ।
ऊ॒र्ध्वान् नः॑ कर्त जी॒वसे॑ ॥३॥
Previous
सूक्त १७१
Next
सूक्त १७३