सूक्त १७०
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त १७०
Script
Translation
Previous
सूक्त १६९
Next
सूक्त १७१
(५) १,३,४ इन्द्रः, (४अगस्त्यो वा,) २,५ अगस्त्यो मैत्रावरुणिः । इन्द्रः । १बृहती, २-४ अनुष्टुप्, ५ त्रिष्टुप् ।
न नू॒नमस्ति॒ नो श्वः कस्तद् वे॑द॒ यदद्भु॑तम् ।
अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति ॥१॥
किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ ।
तेभिः॑ कल्पस्व साधु॒या मा नः॑ स॒मर॑णे वधीः ॥२॥
किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे ।
वि॒द्मा हि ते॒ यथा॒ मनो॒ ऽस्मभ्य॒मिन्न दि॑त्ससि ॥३॥
अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः ।
तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥४॥
त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठः॑ ।
इन्द्र॒ त्वं म॒रुद्भिः॒ सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑ ॥५॥
Previous
सूक्त १६९
Next
सूक्त १७१