सूक्त १३
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त १३
Script
Translation
Previous
सूक्त १२
Next
सूक्त १४
१२ मेधातिथिः काण्वः ।(आप्रीसूक्तं, अग्निरूपा देवता देवताः) १ इध्मः समिद्धोऽग्निर्वा, २ तनूनपात्, ३
नराशंसः, ४ इलः, ५ बर्हिः, ६ देवीर्द्वारः, ७ उषासानक्ता, ८ दैव्यो होतारौ प्रचेतसौ, ९ तिस्रो देव्यः सरस्वतीळाभारत्यः, १० त्वष्टा, ११ वनस्पतिः, १२ स्वाहा कृतयः ।
गायत्री ।
सुस॑मिद्धो न॒ आ व॑ह दे॒वाँ अ॑ग्ने ह॒विष्म॑ते ।
होतः॑ पावक॒ यक्षि॑ च ॥१॥
मधु॑मन्तं तनूनपाद् य॒ज्ञं दे॒वेषु॑ नः कवे ।
अ॒द्या कृ॑णुहि वी॒तये॑ ॥२॥
नरा॒शंस॑मि॒ह प्रि॒यम॒स्मिन् य॒ज्ञ उप॑ ह्वये ।
मधु॑जिह्वं हवि॒ष्कृत॑म् ॥३॥
अग्ने॑ सु॒खत॑मे॒ रथे॑ दे॒वाँ ई॑ळि॒त आ व॑ह ।
असि॒ होता॒ मनु॑र्हितः ॥४॥
स्तृ॒णी॒त ब॒र्हिरा॑नु॒षग् घृ॒तपृ॑ष्ठं मनीषिणः ।
यत्रा॒मृत॑स्य॒ चक्ष॑णम् ॥५॥
वि श्र॑यन्तामृता॒वृधो॒ द्वारो॑ दे॒वीर॑स॒श्चतः॑ ।
अ॒द्या नू॒नं च॒ यष्ट॑वे ॥६॥
नक्तो॒षासा॑ सु॒पेश॑सा॒ ऽस्मिन् य॒ज्ञ उप॑ ह्वये ।
इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥७॥
ता सु॑जि॒ह्वा उप॑ ह्वये॒ होता॑रा॒ दैव्या॑ क॒वी ।
य॒ज्ञं नो॑ यक्षतामि॒मम् ॥८॥
इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ ।
ब॒र्हिः सी॑दन्त्व॒स्रिधः॑ ॥९॥
इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्वये ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥१०॥
अव॑ सृजा वनस्पते॒ देव॑ दे॒वेभ्यो॑ ह॒विः ।
प्र दा॒तुर॑स्तु॒ चेत॑नम् ॥११॥
स्वाहा॑ य॒ज्ञं कृ॑णोत॒नेन्द्रा॑य॒ यज्व॑नो गृ॒हे ।
तत्र॑ दे॒वाँ उप॑ ह्वये ॥१२॥
Previous
सूक्त १२
Next
सूक्त १४