सूक्त १४
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त १४
Script
Translation
Previous
सूक्त १३
Next
सूक्त १५
१२ मेधातिथिः काण्वः । विश्वे देवाः (विश्वैर्देवैः सहितोऽग्निः), ३ इन्द्रवायुबृहस्पतिमित्राग्निपूषभगादित्यमरुद्गणाः, १० विश्वदेवाग्नीन्द्रवायुमित्रधामानि, ११ अग्निः । गायत्री ।
ऐभि॑रग्ने॒ दुवो॒ गिरो॒ विश्वे॑भिः॒ सोम॑पीतये ।
दे॒वेभि॑र्याहि॒ यक्षि॑ च ॥१॥
आ त्वा॒ कण्वा॑ अहूषत गृ॒णन्ति॑ विप्र ते॒ धियः॑ ।
दे॒वेभि॑रग्न॒ आ ग॑हि ॥२॥
इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं॒ भग॑म् ।
आ॒दि॒त्यान् मारु॑तं ग॒णम् ॥३॥
प्र वो॑ भ्रियन्त॒ इन्द॑वो मत्स॒रा मा॑दयि॒ष्णवः॑ ।
द्र॒प्सा मध्व॑श्चमू॒षदः॑ ॥४॥
ईळ॑ते॒ त्वाम॑व॒स्यवः॒ कण्वा॑सो वृ॒क्तब॑र्हिषः ।
ह॒विष्म॑न्तो अरं॒कृतः॑ ॥५॥
घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वह॑न्ति॒ वह्न॑यः ।
आ दे॒वान्त्सोम॑पीतये ॥६॥
तान् यज॑त्राँ ऋता॒वृधो ऽग्ने॒ पत्नी॑वतस्कृधि ।
मध्वः॑ सुजिह्व पायय ॥७॥
ये यज॑त्रा॒ य ईड्या॒स् ते ते॑ पिबन्तु जि॒ह्वया॑ ।
मधो॑रग्ने॒ वष॑ट्कृति ॥८॥
आकीं॒ सूर्य॑स्य रोच॒नाद् विश्वा॑न्दे॒वाँ उ॑ष॒र्बुधः॑ ।
विप्रो॒ होते॒ह व॑क्षति ॥९॥
विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑ ।
पिबा॑ मि॒त्रस्य॒ धाम॑भिः ॥१०॥
त्वं होता॒ मनु॑र्हि॒तो ऽग्ने॑ य॒ज्ञेषु॑ सीदसि ।
सेमं नो॑ अध्व॒रं य॑ज ॥११॥
यु॒क्ष्वा ह्यरु॑षी॒ रथे॑ ह॒रितो॑ देव रो॒हितः॑ ।
ताभि॑र्दे॒वाँ इ॒हा व॑ह ॥१२॥
Previous
सूक्त १३
Next
सूक्त १५