सूक्त १२
ऋग्वेदः / संहिता / शाकल / मण्डल १ / सूक्त १२
Script
Translation
Previous
सूक्त ११
Next
सूक्त १३
१२ मेधातिथिः काण्वः । अग्निः,६ प्रथमपादस्य (निर्मथ्याहवनीयौ) अग्नी । गायत्री ।
अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् ।
अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥१॥
अ॒ग्निम॑ग्निं॒ हवी॑मभिः॒ सदा॑ हवन्त वि॒श्पति॑म् ।
ह॒व्य॒वाहं॑ पुरुप्रि॒यम् ॥२॥
अग्ने॑ दे॒वाँ इ॒हा व॑ह जज्ञा॒नो वृ॒क्तब॑र्हिषे ।
असि॒ होता॑ न॒ ईड्यः॑ ॥३॥
ताँ उ॑श॒तो वि बो॑धय॒ यद॑ग्ने॒ यासि॑ दू॒त्य॑म् ।
दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥४॥
घृता॑हवन दीदिवः॒ प्रति॑ ष्म॒ रिष॑तो दह ।
अग्ने॒ त्वं र॑क्ष॒स्विनः॑ ॥५॥
अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑ ।
ह॒व्य॒वाड् जु॒ह्वा॑स्यः ॥६॥
क॒विम॒ग्निमुप॑ स्तुहि स॒त्यध॑र्माणमध्व॒रे ।
दे॒वम॑मीव॒चात॑नम् ॥७॥
यस्त्वाम॑ग्ने ह॒विष्प॑तिर्दू॒तं दे॑व सप॒र्यति॑ ।
तस्य॑ स्म प्रावि॒ता भ॑व ॥८॥
यो अ॒ग्निं दे॒ववी॑तये ह॒विष्माँ॑ आ॒विवा॑सति ।
तस्मै॑ पावक मृळय ॥९॥
स नः॑ पावक दीदि॒वो ऽग्ने॑ दे॒वाँ इ॒हा व॑ह ।
उप॑ य॒ज्ञं ह॒विश्च॑ नः ॥१०॥
स नः॒ स्तवा॑न॒ आ भ॑र गाय॒त्रेण॒ नवी॑यसा ।
र॒यिं वी॒रव॑ती॒मिष॑म् ॥११॥
अग्ने॑ शु॒क्रेण॑ शो॒चिषा॒ विश्वा॑भिर्दे॒वहू॑तिभिः ।
इ॒मं स्तोमं॑ जुषस्व नः ॥१२॥
Previous
सूक्त ११
Next
सूक्त १३