वाल्मीकिसंदेशः
उत्तरकाण्डः / वाल्मीकिसंदेशः
Script
Translation
Previous
हयचर्या
Next
रामायणगानम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे वाल्मीकिसंदेशः नाम त्रिनवतितमः सर्गः ॥७-९३॥
वर्तमाने तथाभूते यज्ञे च परमाद्भुते ।
सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ॥७-९३-१॥
स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् ।
एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान् ॥७-९३-२॥
शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् ।
वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ॥७-९३-३॥
आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः ।
वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ॥७-९३-४॥
स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ ।
कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ॥७-९३-५॥
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च ।
रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ॥७-९३-६॥
रामस्य भवनद्वारि यत्र कर्म च कुर्वते ।
ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ॥७-९३-७॥
इमानि च फलान्यत्र स्वादूनि विविधानि च ।
जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ॥७-९३-८॥
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै ।
मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ॥७-९३-९॥
यदि शब्दापयेद्रामः श्रवणाय महीपतिः ।
ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ॥७-९३-१०॥
दिवसे विंशतिः सर्गा गेया मधुरया गिरा ।
प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ॥७-९३-११॥
लोभश्चापि न कर्तव्यः स्वल्पोऽपि धनकाङ्क्षया ।
किं धनेनाश्रमस्थानां फलमूलोपजीविना ॥७-९३-१२॥
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ ।
आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ॥७-९३-१३॥
इमास्तन्त्रीः सुमधुराः स्थानं वाऽपूर्वदर्शनम् ।
मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ ॥७-९३-१४॥
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् ।
पिता हि सर्वभूतानां राजा भविति धर्मतः ॥७-९३-१५॥
तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ ।
गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ॥७-९३-१६॥
इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा ।
वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ॥७-९३-१७॥
सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ ।
तथैव करवावेति निर्जग्मतुररिन्दमौ ॥७-९३-१८॥
तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा ।
समुत्सुकौ तौ सममूषतुर्निशां यथाऽश्विनौ भार्गवनीतिसंहिताम् ॥७-९३-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे वाल्मीकिसंदेशः नाम त्रिनवतितमः सर्गः ॥७-९३॥
Previous
हयचर्या
Next
रामायणगानम्