रामायणगानम्
उत्तरकाण्डः / रामायणगानम्
Script
Translation
Previous
वाल्मीकिसंदेशः
Next
वाल्मीकिदूतप्रेषणम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे रामायणगानम् नाम चतुर्नवतितमः सर्गः ॥७-९४॥
तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ ।
यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ॥७-९४-१॥
तां स शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम् ।
अपूर्वां पाठ्यजातिं च गेयेन समलङ्कृताम् ॥७-९४-२॥
प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् ।
बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत् ॥७-९४-३॥
अथ कर्मान्तरे राजा समाहूय महामुनीन् ।
पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ॥७-९४-४॥
पौराणिकाञ्छब्दविदो ये च वृद्धा द्विजातयः ।
स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ॥७-९४-५॥
लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः ।
पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान् ॥७-९४-६॥
कलामात्राविशेषज्ञाञ्ज्योतिषे च परं गतान् ।
क्रियाकल्पविदश्चैव तथा कार्यविदो जनान् ॥७-९४-७॥
भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः ।
हेतूपचारकुशलान् वचने चापि हैतुकान् ॥७-९४-८॥
छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् ।
चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ॥७-९४-९॥
शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् ।
एतान्सर्वान्समानीय गातारौ समवेशयत् ॥७-९४-१०॥
दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः ।
पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ॥७-९४-११॥
ऊचुः परस्परं चेदं सर्व एव समन्ततः ।
उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ ॥७-९४-१२॥
जटिलौ यदि न स्यातां न वल्कलधरौ यदि ।
विशेषं नाधिगच्छामो गायतो राघवस्य च ॥७-९४-१३॥
तेषां संवदतामेवं श्रोतऽणां हर्षवर्धनम् ।
गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ॥७-९४-१४॥
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ।
न च तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा ॥७-९४-१५॥
प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् ।
ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ॥७-९४-१६॥
ततोऽपराह्णसमये राघवः समभाषत ।
श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः ॥७-९४-१७॥
अष्टादशसहस्राणि सुवर्णस्य महात्मनोः ।
प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् ।
ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक् ॥७-९४-१८॥
दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ ।
ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ॥७-९४-१९॥
वन्येन फलमूलेन निरतौ वनवासिनौ ।
सुवर्णेन हिरण्येन किं करिष्यावहे वने ॥७-९४-२०॥
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः ।
श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ॥७-९४-२१॥
तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः ।
पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ॥७-९४-२२॥
किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः ।
कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ॥७-९४-२३॥
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ॥७-९४-२४॥
वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम् ।
येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम् ॥७-९४-२५॥
सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् ।
उपाख्यानशतं चैव भार्गवेण तपस्विना ॥७-९४-२६॥
आदिप्रभृति वै राजन्पञ्चसर्गशतानि च ।
काण्डानि षट् कृतानीह सोत्तराणि महात्मना ।
कृतानि गुरुणास्माकमृषिणा चरितं तव ॥७-९४-२७॥
प्रतिष्ठाऽऽजीवितं यावत्तावत्सर्वस्य वर्तते ॥७-९४-२८॥
सोत्तराणि महात्मना ।
यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ ।
कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ॥७-९४-२९॥
बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् ।
प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ॥७-९४-३०॥
रामोऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः ।
श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत् ॥७-९४-३१॥
शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् ।
तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ॥७-९४-३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे रामायणगानम् नाम चतुर्नवतितमः सर्गः ॥७-९४॥
Previous
वाल्मीकिसंदेशः
Next
वाल्मीकिदूतप्रेषणम्